|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.250. अध्यायः 250
Mahabharata - Adi Parva - Chapter Topics
पुनर्निवेदितविघ्नवृत्तान्तेन ब्रह्मणा आज्ञुप्तस्याग्नेः कृष्णार्जुनौप्रति आगमनम्॥ 1 ॥
वैशम्पायनेन जनमेजयंप्रति खाण्डवदाहकारणकथनसमापनम्॥ 2 ॥
अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-250-0x(1321)(10906)
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः॥ 1-250-1(10907)
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु॥ 1-250-2(10908)
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ।
कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्॥ 1-250-3(10909)
भविष्यतः सहायौ ते नरनारायणौ तदा।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन॥ 1-250-4(10910)
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत।
संभूतौ तौ विदित्वा तु नरनारायणावृषी॥ 1-250-5(10911)
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः।
अनुस्मृत्य जगामाथ पुनरेव पितामहम्॥ 1-250-6(10912)
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः॥ 1-250-7(10913)
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्॥ 1-250-8(10914)
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते।
तावेतौ सहितावेहि खाण्डवस्य समीपतः॥ 1-250-9(10915)
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि॥ 1-250-10(10916)
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः।
देवराजं च सहितौ तत्र मे नास्ति संशयः॥ 1-250-11(10917)
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत॥ 1-250-12(10918)
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्॥ 1-250-13(10919)
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः॥ 1-250-14(10920)
अर्जुन उवाच। 1-250-15x(1322)
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्॥ 1-250-15(10921)
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम॥ 1-250-16(10922)
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्॥ 1-250-17(10923)
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्॥ 1-250-18(10924)
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे॥ 1-250-19(10925)
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि।
निवारयेयं येनेन्द्रं वर्षमाणं महावने॥ 1-250-20(10926)
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक।
करणानि समर्थानि भगवन्दातुमर्हसि॥ ॥ 1-250-21(10927)
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः॥ 250 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|